08 July 2013

॥ उमामहेश्वर स्तोत्रम् ॥


नमः शिवाभ्यां नवयौवनाभ्याम्‌
परस्पराश्लिष्ट व पूः धराभ्याम्‌।
नागेन्द्रकन्या वृषकेतनाभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ १॥

नमः शिवाभ्यां सरसोत्सवाभ्याम्‌
नमस्कृताभीष्ट वरप्रदाभ्याम्‌।
नारायणेनार्चित पादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम्‌॥ २॥

नमः शिवाभ्यां वृषवाहनाभ्याम्‌
विरञ्चि विष्णु इन्द्र सुपूजिताभ्याम्
विभूतिपाटीर विलेपनाभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ ३॥

नमः शिवाभ्यां जगदीश्वराभ्याम्
जगत्पतिभ्यां जयविग्रहाभ्याम्‌।
जम्भारिमुख्यै अभिवन्दिताभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ ४॥

नमः शिवाभ्यां परमौषधाभ्याम्‌
पञ्चाक्षरी पञ्जररञ्जिताभ्याम्‌।
प्रपञ्चसृष्टिस्थिति संहृताभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ ५॥

नमः शिवाभ्याम् अतिसुन्दराभ्याम्‌
अत्यन्तम् आसक्त हृदम्बुजाभ्याम्‌।
अशेषलोकैक हितङ्कराभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ ६॥

नमः शिवाभ्यां कलिनाशनाभ्याम्‌
कङ्कालकल्याण व पूः धराभ्याम्‌।
कैलासशैलस्थित देवताभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ ७॥

नमः शिवाभ्याम् अशुभापहाभ्याम्‌
अशेषलोकैक विशेषिताभ्याम्‌।
अकुण्ठिताभ्याम्‌ स्मृतिसंभृताभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ ८॥

नमः शिवाभ्यां रथवाहनाभ्याम्‌
रवीन्दुवैश्वानर लोचनाभ्याम्‌।
राकाशशाङ्काभ मुखाम्बुजाभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ ९॥

नमः शिवाभ्यां जटिलन्धरभ्याम्‌
जरामृतिभ्यां च विवर्जिताभ्याम्‌।
जनार्दनाब्जोद्भव पूजिताभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ १०॥

नमः शिवाभ्यां विषमेक्षणाभ्याम्‌
बिल्वच्छदा मल्लिकदामभृद्भ्याम्‌।
शोभावती शान्तवतीश्वराभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ ११॥

नमः शिवाभ्यां पशुपालकाभ्याम्‌
जगत् रयी रक्षण बद्धहृद्भ्याम्‌।
समस्त देवासुरपूजिताभ्याम्‌
नमो नमः शङ्करपार्वतीभ्याम्‌॥ १२॥

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम्‌ भक्त्या पठेद्द्वादशकं नरो यः।
स सर्वसौभाग्य फलानि भुङ्क्ते शतायुरान्ते शिवलोकमेति॥

॥इति उमामहेश्वरस्तोत्रं सम्पूर्णम्‌॥


No comments: