१) मनोबुद्ध्यहंकारचित्तानि नाहं,
न च श्रोत्रजिव्हे न च घ्राणनेत्रे,
न च व्योमभूमिर्न तेजो न वायु,
श्चिदानन्दरूप: शिवोsहं शिवोsहं
२) न च प्राणसंज्ञो नवै पंचवायु--
र्नवा सप्तधातुर्न वा पंचकोश:,
न वाक्पाणिपादं न चोपस्थपायु,
श्चिदानन्दरूप: शिवोsहं शिवोsहं
३) न मे द्वेषरागौ न मे लोभमोहौ,
मनो नैव मे नैव मात्सर्यभाव:,
न धर्मो न चार्थो न कामो न मोक्ष--
श्चिदानन्दरूप: शिवोsहं शिवोsहं
४) न पुण्यम न पापम न सौख्यम न दु:खम,
न मंत्रो न तीर्थं न वेदा न यज्ञा:,
अहं भोजनम नैव भोज्यं न भोक्ता,
चिदानन्द रूप: शिवोsहं शिवोsहं
५) न मे मृत्युशंका न मे जातिभेदा:,
पिता नैव मे नैव माता न जन्म,
न बंधुर्न मित्रं गुरुर्नैव शिष्य--
चिदानन्द रूप: शिवोsहं शिवोsहं
६) अहं निर्विकल्पो निराकाररूपो,
विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणम,
सदा मे समत्वं न मुक्तिर्न बंध:,
चिदानन्द रूप: शिवोsहं शिवोsहं
ओम तत सत.
No comments:
Post a Comment